वांछित मन्त्र चुनें

खे रथ॑स्य॒ खेऽन॑स॒: खे यु॒गस्य॑ शतक्रतो । अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्व्यकृ॑णो॒: सूर्य॑त्वचम् ॥

अंग्रेज़ी लिप्यंतरण

khe rathasya khe nasaḥ khe yugasya śatakrato | apālām indra triṣ pūtvy akṛṇoḥ sūryatvacam ||

पद पाठ

खे । रथ॑स्य । खे । अन॑सः । खे । यु॒गस्य॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अ॒पा॒लाम् । इ॒न्द्र॒ । त्रिः । पू॒त्वी । अकृ॑णोः । सूर्य॑ऽत्वचम् ॥ ८.९१.७

ऋग्वेद » मण्डल:8» सूक्त:91» मन्त्र:7 | अष्टक:6» अध्याय:6» वर्ग:14» मन्त्र:7 | मण्डल:8» अनुवाक:9» मन्त्र:7